संस्कृतस्य विश्वविद्यालयानां कुलपतिभिः प्राध्यापकैः वा व्यवहरणीयाः विन्दवः
संस्कृतस्य विश्वविद्यालयानां कुलपतिभिः प्राध्यापकैः वा व्यवहरणीयाः विन्दवः --
भवद्भिर्यन्मुखेनैव ‘आओ’ ‘जाओ’ निगद्यते।
आगच्छ गच्छेति कथं तन्मुखेनैव नोच्यते।।
भाषा केवलं व्यवहाराय समुपयुज्यते नान्यत् तस्याः प्रयोजनम्। व्यवहारेणैव धनार्जनमपि भवति। इदं सर्वं जगत् व्यवहारमयम्। अतएव संसारे जापान-रूस-चीनसदृशाः विकसितदेशाः निजभाषया एव अहोरात्रं समुन्नतिं कुर्वन्तः विश्वपटले राराजन्ते। तत्राङ्ग्लभाषायाः तादृशं महत्त्वं नास्ति। ते निजभाषया एव दैनन्दिनव्यवहारं, कार्यालयीयकार्यं राजकीयकार्यं च सम्पादयन्ति। सम्प्रति ते समृद्धाः आढ्याश्चापि सन्ति।
संस्कृतशिक्षणं भाषाशिक्षणपर्यन्तं परिमितं नास्ति। संस्कृतशिक्षणेन सह भारतीयसंस्कृतेः मूलतत्त्वानां परिचयप्रदानं तस्याः संरक्षणोपायां प्रशिक्षणं प्रान्तीयभाषाणां पोषणं चापि भवति। कथासुभाषितसूक्तमन्त्रादिमाध्यमैः चरित्रनिर्माणार्थं, पर्यावरणसंरणणार्थं, समाजे सामरस्यमानेतुं चेत्यादिभिः बहुभिः कारणैः संस्कृतं प्रासङ्गिकमस्ति। बहूनां संविधाननियमानां कार्यान्वयनाय संस्कृतस्योपपरणानि अनिवार्याणि, तत्सर्वं चिन्तनीयानि। यथा -
1. ‘शिल्पसंसारः’ नाम्ना कश्चन साप्ताहिकपत्रिकायाः समूहः वर्तते। यत्र आङ्ग्ल–संस्कृत-हिन्दी-मराठीभाषासु संस्कृतवाङ्मयस्य भौतिकशास्त्राणां महद्विवेचनं समुपलभ्यते। यथा- विमानयानम्, वास्तु, भूगर्भः, खनिजम्, वृष्टिः, कृषिः रत्नं चेत्यादीनां शास्त्राणाम्। तत्र आकाशयानग्रन्थः, वानिकी-विद्या, प्राचीन-अर्वाचीन जहाज, विद्युद् विज्ञानग्रन्थादीनां विषये चर्चा प्राप्यते। एवमेव नगरनिर्माणविधिः (स्वच्छता-स्वस्थतादिकरणम्, आपणः, सर्वजनवासः, राजवरालयः) इत्यस्मिन् शास्त्रेऽपि भौतिकं स्वरूपं सम्यक् लभ्यते। संस्कृतवाङ्मयस्य एते विषयाः कुत्रापि संस्कृतशालासु सामान्यशालासु वा न पाठ्यन्ते।
2. संस्कृतविश्वविद्यालयेषु सर्वेभ्यः विभागेभ्यः शैक्षिकेतरविभागेभ्योऽपि (पुस्तकालयः सचिवालयादिषु) वा संस्कृतज्ञानाम् एव नियुक्तिः करणीया। अर्थात् केषुचिदपि पदेषु कर्मचारिणाम् आवश्यकता भवति चेत् संस्कृतज्ञानामेव नियुक्तिः भवेत्। अनेन संस्कृताध्येतॄणां कृते वृत्यवसरः भविष्यति। एतद्दृष्ट्वा लोकः संस्कृतं पठिष्यति। आङ्लाध्यापकानां कृतेऽपि संस्कृतज्ञानमनिवार्यं स्यात्, येन आङ्ग्लज्ञाः अपि संस्कृतं पठेयुः। यतोहि बहवः संस्कृतज्ञाः अपि आङ्ग्लभाषायां पटवो भवन्ति। यथा अन्येषु विद्यालयेषु संस्कृताध्यापकाय आङ्ग्लमनिवार्यं भवति।
3. संस्कृतविश्वविद्यालयेषु ये केऽपि असंस्कृतज्ञाः कार्यकर्तारः सन्ति (ये तन्त्रांशे यन्त्रांशे च संस्कृतेन कार्यालयव्यवहारं कर्तुं नार्हन्ति) तेषां कृते अनिवार्यतया संस्कृतभाषाबोधनवर्गः संचालनीयः। येन सर्वोऽपि संस्कृतकुटुम्बः संस्कृतव्यहारे कुशलाः स्युः।
4. तत्र सर्वेषामपि प्रदत्तानां निवेशः (निक्षेपः) सङ्गणकेषु सञ्चिकासु वा देवनागरीलिप्या भवतु न तु रोमनलिप्या। सहैव देशस्य सर्वेषु विश्वविद्यालयेषु महाविद्यालयेषु च हिन्दी-संस्कृतभाषयोः यावन्तः शोधाः अभूवन्, तेषां सङ्गणकीकरणे तयैव भाषयापि (देवनागरीलिप्या) उट्टङ्क्य तन्त्रांशनिर्माणं स्यात्। तादृश्मेव नैककार्यार्थं हिन्दीसंस्कृतज्ञातॄणामेव नियुक्तिः स्यात्। अन्यथा काशीहिन्दूविश्वविद्यालय-दिल्लीविश्वविद्यालयप्रमुखासु शिक्षासंस्थासु हिन्दीसंस्कृतयोः शोधप्रबन्धानां ग्रन्थमाला (कैटेलॉग्स्) तन्त्रांशे यन्त्रांशे चोभयत्र आङ्ग्ललिप्या (रोमनलिप्या) निबद्धाः प्राप्यन्ते।
5. ते विश्वविद्यालयाः स्वयं संस्कृतभाषाम् अध्यापनाय अध्यन्तर्जाले
चलचित्रमार्गेण ‘स्वाध्यायेन संस्कृतम्’ इति कमपि ध्वनि-चलचित्रमाध्यमेन एकं सञ्चारपथकार्यक्रमं रचयेत् । तत्र संस्कृतकवीनाम् अधुनातनं काव्यपाठान् अपि संचालयेत् ।
6. प्रतिसत्रं जायमानासु विभागीयराष्ट्रियसङ्गोष्ठीषु सर्वजनोपयोगिसमसामयिकविषयेषु परिचर्चा भवेत्, न वा अनुकरणशोधपत्रवाचनम् ।
7. शङ्करशास्त्रार्थपरिषद्द्वारा प्रतिविभागीयशास्त्रार्थस्य दिनाङ्काः विषयाश्च सत्रारम्भे एव निश्चिताः स्युः । येन शास्त्रार्थस्य पूर्वयोजना छात्रैः प्राध्यापकैश्च क्रियेत ।
8. शारदाविशिष्टव्याख्यानमालायाः पाठ्यक्रमस्य कमप्येकं द्वे वा विषयमधिकृत्यैव व्याख्यानं भवेत्, यस्माच्च छात्राणामुपकारोऽपि भविष्यति ।
9. विश्वविद्यालयेषु विद्यालयादिषु च अध्ययनाध्यापनव्यवस्थायां स्तरहीनता चैतन्याभावश्च दृश्यते। अस्य कारणं कदाचित् संस्कृतभाषायाः समुचितोपयोगिता अनुभूयते । प्राध्यापकानां स्थायित्वं यथा भवेत् तथा आयोगेन सह अनुशंसनं करणीयम् । अथ वा ‘समानकार्यं समानवेतनम्’ इति सर्वोच्चन्यायालयस्य नियमः पालनीयः । तत्र प्रभावशीलता अपेक्ष्यते, इदानीं सङ्क्रमणकालोऽपि प्रचलति ।
10. विश्वविद्यालयेषु सर्वेषां कृते यत्परिचयपत्रं निर्मीयते तत्संस्कृतभाषया स्यात् । एवमेव सर्वोऽपि कार्यालयीयसूचना-नामावलि-मन्त्रणादीनां भाषा संस्कृतमेव भवेत् । इदं संस्कृतविश्वविद्यालयानाम् उद्देश्यपूर्तेः दिशि प्राथमिकं सोपानं भविष्यति, अन्यथा संस्कृतविश्वविद्यालयाः सामान्यविश्वविद्यालयो भूत्वा कार्यकर्तॄणामुदरपोषणाय कुटुम्बस्यानन्दमयजीविकायै च भविष्यति ।
11. विद्यालयीयमीडियाप्रकोष्ठे उपयुक्तसर्वाणि उपकरणानि स्युः । तानि च जीवितावस्थासु स्युः तत्रत्याः संयोजकाः स्थानीयराष्ट्रियदूरदर्शन-वार्तापत्रादीनां सम्पर्के स्युः ।
12. विद्यालयेषु यः कोऽपि कार्यक्रमः भवति चेत्तस्य सूचना मुद्रितवार्तापत्रेषु विद्युत्वार्तासु चावस्यमेवागच्छेत् ।
13. विद्यालयेषु चलच्चित्रमुद्रकः, चित्रग्राहकः ध्वनिमुद्रकश्च अनिवार्येण स्युः । तत्सञ्चालनाय सञ्चालकाः (प्राध्यापकेषु एव) सिद्धाः स्युः । उक्तोपकरणानि च स्तरीयानि सोनी, निकोन पानासोनिक आदीनामुद्योगानां स्युः ।
14. परिसरे औषधालयनाम्ना एकः तादृशः प्रकोष्ठः स्यात् यस्मिन् एकः आयुर्वेदाचार्यः (वैद्यः) भारतीयपद्धत्या चिकित्सां कुर्याद् औषधं च दद्यात् । अस्माद् अस्माकमायुर्वेदशास्त्रमपि संरक्षितं भविष्यति । जनाः आङ्ग्लपद्धत्याः औषधेभ्यः मुक्ताः भविष्यन्ति । यतः आङ्ग्लपद्धत्याः औषधानि कालान्तरे स्वास्थ्यम् अतीव दुष्प्रभावयन्ति, यस्य ज्ञानं शनैः शनैः रोगस्यान्तिमावस्थायां भवति ।
15. विद्यालये एकः योगाचार्यः भवेत् । यः प्रत्यहं प्रातः सायं च प्राङ्गणे योगासनस्य प्रशिक्षणं (कक्षां) सञ्चालयेत् । यस्मात् रोगाणां सम्भावना न्यूना भविष्यति ।
16. विद्यालयस्य वैदिकाः अन्यैः जनैः सह मिलित्वा विश्वकल्याणाय पर्यावरणशुद्ध्यर्थञ्च यज्ञानुष्ठानं शुभमुहूर्तेषु ज्योतिषिकानां परामर्शेण कुर्युः । एवमेव परिसरस्य प्रत्येकं कार्यक्रमाणां मुहूर्तं ज्योतिषिकाः वदेयुः ।
17. सर्वेऽपि संस्कृतविश्वविद्यालयाः स्वीयपरिसरेभ्यः प्रकाशितानां पत्रिकाणां जातशोधप्रबन्धानां च प्रतीः तन्त्रांशोपागममाध्यमेन स्वजालपुटे स्थापयेयुः ।
18. शिक्षासंस्थासु संस्कृतविषये जातशोधानामध्ययनं कृत्वा सार्थकतां परामर्शान् च निष्कास्य संस्थायाः प्रशासनस्य वा पुरो स्थापनीयम्। एतदर्थं काचित् परियोजना प्रचालयितव्या । एतत् कार्यनिमित्तं संस्कृतज्ञानामेव नियुक्तिर्विधातव्या । येन संस्कृतभाषायाः प्रचारप्रसारयोः संस्कृतक्षेत्रे जीविकोत्पादकतायाश्च समस्या काचित् न्यूना स्यात् ।
19. दूरदर्शने, चलचित्रे आकाशवाण्यां च विज्ञापननिर्माणे हिन्दी-संस्कृत-शब्दानामधिकाधिकप्रयोगाय प्रशासनेन संस्कृतसंस्थाभिश्च प्रेरणा प्रदातव्या । नो चेत् भारते आङ्ग्लभाषायाः प्रचाराय प्रसाराय च एषः सुष्ठु माध्यमः वर्तते।
20. संस्कृतचलचित्राणां निर्माणं तेषां ग्रामीण-नगरस्थसंस्कृतशिक्षालयेषु प्रदर्शनं च स्याताम्। भारते संस्कृतच्छात्राणां कृते संस्कृतगीतानि चलचित्राणि च संस्कृतसंस्काराय विनोदकानि माध्यमानि। एतत् कार्यं भारतसर्वकारेण शिक्षालयान् अन्विष्य संस्कृतकलाकारान् कार्यकर्तॄन् च संरक्ष्य करणीयम्।
21. यथा भारतवर्षस्य परम्परा वर्तते यत् वरयात्रासु ‘जनवासः’ भवति, यस्मिन् कन्यायाः नगरे वर-वधूपक्षयोः पक्षतः एका विद्वद्गोष्ठी सम्मेलनं वा भवति। सा परम्परा अद्यत्वे न कुत्रापि दृश्यते। केचन संस्कृतपण्डिताः विद्वांसो वा एतदर्थं ससङ्कल्पेन प्रभूतं प्रयासं कुर्युः यत् मम ग्रामे समीपस्थग्रामेषु परिचयेषु वा कुत्रापि वरयात्रा भवति चेत् तत्र एकस्मिन् प्रहरे सत्रे वा ‘जनवासः’ अवश्यं कारयामि। तस्मिन् जनवासे कस्मिँश्चित् विशेषविषये विद्वत्सु परिचर्चा भवेत्। यथा- (क) वर्तमानपरिप्रेक्ष्ये वरयात्रासु जनवासस्यावश्यकता। (ख) राज्ञः जनकस्यातिथ्यसत्कारः इत्यादि। जनवासे संस्कृतगीतानां, सुभाषितकण्ठपाठस्य, शास्त्रार्थस्य हिन्दी-संस्कृतभाषाभ्यां क्षेत्रीयभाषया वा कविसम्मेलनस्य च आयोजनं भवितुमर्हति।
सार्वभौम-संस्कृत-प्रचारसंस्थानम्, वाराणसीद्वारा प्रकाशिते ‘संस्कृत प्रचार के कतिपय रचनात्मक कार्यक्रम’ नामके पुस्तके श्रीवासुदेवद्विवेदिमहोदयेन संस्कृतशिक्षणस्योपायाः सविस्तरेण उल्लिखिताः सन्ति । तेषु कतिपयांशाः यथा -
पारस्परिकं सौहार्द्रं सङ्घठनञ्च
छात्राणां ह्रासे तेषां सुदृढीकरणम्
वाग्वर्द्धनी सभा
संस्कृतव्याख्यान-माला
संस्कृतसम्मेलनम्
महिला-संस्कृत-सम्मेलनम्
संस्कृतसंस्थाभ्यः संस्कृतप्रचारार्थमनुरोधः
हिन्दी-आङ्ग्लविद्यालयेषु संस्कृत-परिषद्
संस्कृतस्य संस्कृनिष्ठहिन्द्याश्च व्यवहारः
परिवारे संस्कृत-प्रचारः
सरलसंस्कृतस्य प्रयोगः
रात्रि-संस्कृत-पाठशाला
त्रैमासिक-संस्कृत-शिक्षणम्
ग्रामपाठशाला-गृहस्थपण्डितद्वारा संस्कृत-प्रचारः
कन्या-संस्कृत-पाठशाला
विधवाभ्यः संस्कृत-शिक्षा
कथावाचन-प्रवचनद्वारा संस्कृत-प्रचारः
वरयात्रायां संस्कृतप्रचारः
संस्कृतनाटकानाम् अभिनयः
संस्कृतगीतानां प्रचारः
संस्कृत-कविसम्मेलनम्
साहित्य-प्रचारः
संस्कृत-पत्र-पत्रिकाणां प्रचारः
संस्कृत-साहित्यकाराणां जयन्ती
संस्कृतानुरागिणां सङ्ग्रहः
संस्कृत-प्रचारार्थं साधु-सन्यासीनां सङ्घठनं शिक्षणायोजनञ्च
संस्कृत-प्रचाराय आर्यसमाजे पुनरुत्साहस्यावश्यकता
गुरु-पुरोहितानां संस्कृतशिक्षणम्
पण्डा-पुजारीणां संस्कृतशिक्षणम्
नेतृषु संस्कृत-प्रचारः
मुस्लिमजनेषु संस्कृतप्रचारः
स्थानाय वेतनवृद्धये च राज्यात् साहाय्यं प्राप्तुमान्दोलनम्
धार्मिक-स्थानेषु संस्कृत-प्रचारः तेषां द्रव्याणां संस्कृतप्रचारार्थविनियोगः
पुरस्कार-निर्धारणम्
संस्कृसाहित्यसेवीनां सम्माननं सहयोगश्च
बौद्धजैनग्रन्थानां स्वाध्यायः समादरश्च
संस्कृतप्रचार-परीक्षाणामायोजनम्
संस्कृत-वाद-विवाद-प्रतियोगिता
जातीय-सभासु संस्कृतप्रचारार्थमनुरोधः
संस्कृतप्रचारोपयोगिसाहित्यानां प्रकाशनम्
संस्कृत-प्रचारार्थं हिन्दीपत्रस्य प्रकाशनम्
संस्कृते विज्ञापन-पट्टानां (साईन-बोर्ड) निर्माणं, प्रकाशनं प्रचारश्च
विशिष्टविदुषां संस्कृतप्रचारार्थं भ्रमणम्
प्रौढपाण्डित्यस्य रक्षा
विदेशेषु संस्कृत-प्रचारः
आन्दोलने
1. संस्कृतसंस्थानां कार्यालयेषु संस्कृतज्ञा एव लेखकाः कर्मचारिणश्च नियोक्तव्याः।
2. प्रत्येकं कारागारे (जेल) धर्मोपदेशाय संस्कृतशिक्षणाय च एकैकः पण्डितः प्रतिष्ठापनीयः, तथा च स्वास्थ्यनिरीक्षणार्थं एकैकः आयुर्वेदाचार्यश्चापि नियोक्तव्यः।
3. आरक्षक-विभागेऽपि (पुलिस-विभाग) उपर्युक्तकार्यार्थम् एकः पण्डितः एकः वैद्यश्च नियुक्तः स्यात्।
4. ग्रामसुधार-विभागे ग्रामपञ्चायत-विभागे चापि धर्मोपदेशार्थं संस्कृतस्य एकैकः वक्ता विद्वान् नियुक्तो भवेत्।
5. न्यायालयेषु पञ्जीकरणकार्यालयेषु (रजिस्ट्री-ऑफिस) च शुद्धहिन्दी-संस्कृतभाषयोः पत्राणि लिखितुं संस्कृतज्ञानां नियुक्तिर्भवेत्।
6. मठेषु संस्कृतस्य विद्वांस एव मठाधीशाः भवेयुः।
7. मन्दिरेषु संस्कृतस्य विद्वांस एव पूजायाः कार्यं कुर्युः।
8. तीर्थेषु शुद्धसंस्कृतेन सङ्कल्प-श्राद्ध-आदिकर्तुं सक्षमाः योग्यपुरुषा एव पण्डाकार्यं कुर्युः।
9. सर्वकारस्य अवकाश- सूचीं निर्माणाय एकस्य धर्मशास्त्रिणः एकस्य ज्योतिर्विदश्च पदं सुनिश्चितं स्यात्।
1. विदुषां सेवनं इति काचन प्रायोजना प्रचिलितव्या। यत्र अध्येता ध्वनिमुद्रणेन लेखनेन चलचित्रमुद्रणेन च विदुषः अध्ययनं कृत्वा शास्त्ररहस्यं विज्ञानं च जानीयुः। सेवनीयाः विद्वांसः यथा – प्रो. हृदयरंजनशर्मा, देवर्षि कलानाथशास्त्री, जगमोहन सिंह राजपूत, प्रो. राधावल्लभत्रिपाठी, श्रीमती पुष्पादेवी इत्यादयः।
2. प्रत्येकं समाचारपत्राणां दूरदर्शनसमाचारमाध्यमानां च कार्यालये एकः संस्कृतज्ञः अनिवार्येण प्रतिष्ठापयितव्यः । यः प्रतिदिनस्य व्रत-त्योहारोत्सव-पर्वणां महत्त्वविध्यादिविषये सविस्तरेणं वास्तविकं च लेखिष्यति ज्ञानं च प्रदास्यति ।
Comments
Post a Comment