मङ्गलाचरणम् इति शब्दस्य अर्थः ।




                                               मङ्गलाचरणम्

संस्कृतजगति विद्यमानानां शब्दानां निष्पत्तिः धातुभ्यः एव भवति इति शाकटायनमतम् सर्वं नाम धातुजमाह इति तस्य सिद्धान्तः । तेन मङ्गलशब्दः अपि धातोः निष्पन्नः इति ज्ञायते । पुण्यम्, पूतः, पवित्रम्, शिवम्, शुभम्, कल्याणम्, भद्रम्, सौख्यम् इत्यादयः मङ्गलस्य पर्यायवाचिनः शब्दाः 
सन्ति । आङ्-पूर्वकात् चर इति धातोः ल्युट्प्रत्यये कृते सति आचरणम् इति शब्दः निष्पद्यते । मङ्गलस्य आचरणम् इति मङ्गलाचरणम् ।
मगि (मङ्ग) गत्यर्थे इत्यस्मात् धातोः अचल्प्रत्यये कृते सति मङ्गल इति शब्दः निष्पद्यते । मङ्गलइति शब्दः कल्याणसूचक अस्ति । सुखं कल्याणं वा आनयति यः सः मङ्गलः इति । मङ्गलशब्दस्य अर्थः एवमपि उच्यते – मङ्गल इत्यत्र द्वौ शब्दौ वर्तेते । एकः मम्, अपरश्च गल इति, मम् इति शब्दस्य अर्थः भवति पापम्, एवञ्च गलइति शब्दस्य अर्थः गालयनम् अर्थात्
मं पापं गालयतीति मङ्गलम् । संसारस्य सर्वाणि सुखानि विनाश्य लौकिकं सुखम् एवञ्च आध्यामिकसुखं यः ददाति सः मङ्गलः भवति । मङ्गशब्दोऽयमुद्दिष्टः पुण्यार्थस्याभिधायकः इत्यनेन मङ्ग शब्दः पुण्यार्थस्य प्रतिपादकोऽपि वर्तते इति स्पष्टीभवति । यः पुण्यं लाति, पापानि  नाशयति सोऽपि मङ्गलः भवति इत्यर्थः ।
कस्यचिदपि ग्रन्थलेखनादिशुभकार्यस्य प्रारम्भे, मध्ये अन्ते च मङ्गस्य आचरणं क्रियते । येषु ग्रन्थेषु मङ्गलाचरणं क्रियते ते ग्रन्थाः लोके प्रसिद्धाः भवन्ति । ये मङ्गलस्य आचरणं कुर्वन्ति ते वीरतां प्राप्नुवन्ति, अथ च आयुष्मन्तः भवन्ति । लोकसमाजे ते वृद्धिम् उन्नतिञ्च  प्राप्नुवन्ति । 
उक्तञ्च – पातञ्जलमहाभाष्ये – मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि
प्रथन्ते । वीरपुरुषाणि आयुष्मत् पुरुषाणि च भवन्ति । इति
काचन अनुमितस्मृतिः अस्ति – समाप्तिकामो मङ्गलमाचरेत् इति । प्रायशः सर्वेषां लेखकानां ग्रन्थलेखनस्य उद्देश्यं लोककल्याणं जनहितञ्च भवति । अतः  तादृशानां लोककल्याणकारिणां ग्रन्थानां प्रारम्भे, मध्ये अन्ते च मङ्गलाचरणं क्रियते । भगवान् परमेश्वरः मङ्गलस्वरूप अस्ति। अतः भगवतः स्वस्य इष्टदेवस्य गुरोः स्मरणपूर्वकं तेषां गुणानां स्तुतेः करणेन अस्माकं ग्रन्थरचनादीनि अन्यान्यपि च शुभकार्याणि निर्विघ्नतया पूर्णतां गच्छन्ति। मङ्गलाचरणं त्रिविधं भवति –
नमस्कारात्मकं मङ्गलाचरणम्, आशीर्वादात्मकं मङ्गलाचरणम्, वस्तुनिर्देशात्मकं मङ्गलाचरणम् इति ।
                             उक्तञ्च – आदौ नमस्क्रियार्शीर्वा वस्तुनिर्देश एव वा ।
यत्र गुरोः अथवा भगवतः गुणकथनप्रशंसापुरस्सरं करशिरः संयोगादिरूपेण वन्दना क्रियते तद् भवति नमस्कारात्मकं मङ्गलाचरणम्
यत्र ग्रन्थे प्रतिपादयिष्यमाणानां पाठ्यविषयाणां नाममात्रेण निर्देशः क्रियते तद् भवति वस्तुनिर्देशात्मकं मङ्गलाचरणम्
यत्र ग्रन्थस्य अध्ययनेन शिष्यस्य अध्येतॄणां वा कल्याणकामना क्रियते तद् आशीर्वादात्मकं मङ्गलाचरणं भवति ।
                                                          इत्यलम्










Comments

Post a Comment

Popular posts from this blog