मङ्गलाचरणम् इति शब्दस्य अर्थः ।
मङ्गलाचरणम्
संस्कृतजगति विद्यमानानां शब्दानां
निष्पत्तिः धातुभ्यः एव भवति इति शाकटायनमतम् । ‘सर्वं नाम धातुजमाह’ इति तस्य सिद्धान्तः । तेन मङ्गलशब्दः अपि धातोः निष्पन्नः इति
ज्ञायते । पुण्यम्, पूतः, पवित्रम्, शिवम्, शुभम्, कल्याणम्, भद्रम्, सौख्यम्
इत्यादयः मङ्गलस्य पर्यायवाचिनः शब्दाः
सन्ति । आङ्-पूर्वकात् ‘चर’ इति धातोः
ल्युट्प्रत्यये कृते सति आचरणम् इति शब्दः निष्पद्यते । मङ्गलस्य आचरणम्
इति मङ्गलाचरणम् ।
मगि (मङ्ग)
गत्यर्थे इत्यस्मात् धातोः ‘अचल्’ प्रत्यये कृते सति ‘मङ्गल’ इति शब्दः निष्पद्यते । ‘मङ्गल’
इति शब्दः कल्याणसूचकः अस्ति । सुखं कल्याणं वा आनयति यः सः मङ्गलः इति । मङ्गलशब्दस्य
अर्थः एवमपि उच्यते – मङ्गल इत्यत्र द्वौ शब्दौ वर्तेते । एकः मम्, अपरश्च गल इति,
मम् इति शब्दस्य अर्थः भवति पापम्, एवञ्च ‘गल’ इति शब्दस्य अर्थः गालयनम् अर्थात्
मं पापं
गालयतीति मङ्गलम् ।
संसारस्य सर्वाणि सुखानि विनाश्य लौकिकं सुखम् एवञ्च आध्यामिकसुखं यः ददाति सः
मङ्गलः भवति । मङ्गशब्दोऽयमुद्दिष्टः
पुण्यार्थस्याभिधायकः इत्यनेन मङ्ग शब्दः पुण्यार्थस्य प्रतिपादकोऽपि वर्तते इति
स्पष्टीभवति । यः पुण्यं लाति, पापानि नाशयति
सोऽपि मङ्गलः भवति इत्यर्थः ।
कस्यचिदपि ग्रन्थलेखनादिशुभकार्यस्य
प्रारम्भे, मध्ये अन्ते च मङ्गस्य आचरणं क्रियते । येषु ग्रन्थेषु मङ्गलाचरणं क्रियते
ते ग्रन्थाः लोके प्रसिद्धाः भवन्ति । ये मङ्गलस्य आचरणं कुर्वन्ति ते वीरतां प्राप्नुवन्ति,
अथ च आयुष्मन्तः भवन्ति । लोकसमाजे ते वृद्धिम् उन्नतिञ्च प्राप्नुवन्ति ।
उक्तञ्च – पातञ्जलमहाभाष्ये –
मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि
प्रथन्ते । वीरपुरुषाणि आयुष्मत्
पुरुषाणि च भवन्ति । इति
काचन अनुमितस्मृतिः अस्ति – ‘समाप्तिकामो मङ्गलमाचरेत्’ इति । प्रायशः सर्वेषां लेखकानां ग्रन्थलेखनस्य उद्देश्यं
लोककल्याणं जनहितञ्च भवति । अतः तादृशानां
लोककल्याणकारिणां ग्रन्थानां प्रारम्भे, मध्ये अन्ते च मङ्गलाचरणं क्रियते । भगवान्
परमेश्वरः मङ्गलस्वरूप अस्ति। अतः भगवतः स्वस्य इष्टदेवस्य गुरोः स्मरणपूर्वकं तेषां
गुणानां स्तुतेः करणेन अस्माकं ग्रन्थरचनादीनि अन्यान्यपि च शुभकार्याणि
निर्विघ्नतया पूर्णतां गच्छन्ति। मङ्गलाचरणं
त्रिविधं भवति –
नमस्कारात्मकं मङ्गलाचरणम्,
आशीर्वादात्मकं मङ्गलाचरणम्, वस्तुनिर्देशात्मकं मङ्गलाचरणम् इति ।
उक्तञ्च
– आदौ नमस्क्रियार्शीर्वा वस्तुनिर्देश एव वा ।
यत्र गुरोः अथवा भगवतः
गुणकथनप्रशंसापुरस्सरं करशिरः संयोगादिरूपेण वन्दना क्रियते तद् भवति नमस्कारात्मकं
मङ्गलाचरणम् ।
यत्र ग्रन्थे प्रतिपादयिष्यमाणानां
पाठ्यविषयाणां नाममात्रेण निर्देशः क्रियते तद् भवति वस्तुनिर्देशात्मकं
मङ्गलाचरणम् ।
यत्र ग्रन्थस्य अध्ययनेन शिष्यस्य अध्येतॄणां
वा कल्याणकामना क्रियते तद् आशीर्वादात्मकं मङ्गलाचरणं भवति ।
इत्यलम्
सुन्दर
ReplyDelete