कोरोनावायरसकारणेन जायमानाः हानयः लाभाश्च ।


     
   
                 
कोरोनावायरसकारणेन जायमानाः हानयः
          विश्वस्य अर्थव्यवस्थायां हानिः ।
Ø विशालानाम् उद्योगानां हानिः, उद्योगपतीनाञ्च चिन्ता ।
Ø सामान्यजनानां दैनन्दिनदिनचर्यायाम् अतीव कष्टम् ।

  Ø भोजनाभावेन बहूनां जनानां प्राणत्यागः ।
  Ø समये औषधीनां, यानानाम् अभावेन जनानां मार्गे एव प्राणत्यागः ।
  Ø स्वकुटुम्बात् दूरे भूत्वा अन्यस्थले स्थितिः कष्टकरा ।
  Ø विद्यालय-विश्वविद्यालय-संस्थादिषु अध्ययनाभावेन ज्ञानस्य विस्मरणम् ।
  Ø दैनन्दिनदिनचर्यायाः अव्यवस्था ।
  Ø भ्रमणशीलानां स्थौल्यजनानां भ्रमणाभावेन स्वशरीरे कष्टानुभूतिः ।
  Ø अत्याचार-दुराचार-चौर्यादिकार्याणां वर्धनम् ।
  Ø मार्गे स्थितानां पशूनां भोजनाभावेन प्राणत्यागः ।


कोरोनावायरसकारणेन जायमानाः लाभाः

Ø     आत्मानं सिंहं मन्यमानानां देशानां वैज्ञानिकानाञ्च एकवारम् आत्मनिरीक्षणे बाध्यता ।
  Ø सर्वरीत्या विश्वस्य पवित्रता ।
  Ø हिंसा-मारण-अत्याचारादिभिः जीवान् मारयित्वा मांसादीनां भक्षणे रतानां देशानामुपरि पुनर्विचारः ।
  Ø प्रत्येकं मानवानां प्रकृतेः समक्षं स्वकर्तव्यस्य बोधनम् ।
Ø सर्वेषां जीवजन्तुपशुपक्षिणामपि अस्यां प्रकृतौ जीवने अधिकारः तेषामपि अस्यां प्रकृतौ अस्तित्वस्य बोधनम् ।
  Ø जल-वायु-पर्यावरणानां स्वच्छता ।
  Ø जनानाम् एकत्र उपविश्य कार्यकरणस्य अभ्यासः ।
  Ø सर्वेषां रामायणभारतादिषु स्वकीयासु परम्परासु इतिहासेषु श्रद्धोत्पादनम् ।
Ø कुटुम्बेषु परस्परं मैत्रीभावः ।
  Ø गृहे स्थित्वा स्वबालेभ्यः गृहस्थकार्यादीनां विषये बोधनम् ।
Ø आधुनिकयन्त्रादीनाम् अप्रयोगणैव सरलतया कुटुम्बैः सह प्रेम्णा गृहे वासः ।
Ø चलच्चित्रादीनाम् अदर्शनेनापि सरलतया जीवनयापनम्  
  Ø आध्यात्मिकक्षेत्रेषु विश्वस्य एका दृष्टिः ।
                                                               
                                                               ***************************













Comments

Post a Comment

Popular posts from this blog