उपमोत्प्रेक्षालङ्कारयोः  कः  भेदः  ?
(द्वौ  अपि  सादृश्यमूलकौ  अलङ्कारौ  स्तः  ।)

Ø उपमालङ्कारः भेदाभेदप्रधानसादृश्यमूलकः अस्ति ।  
Ø किन्तु उत्प्रेक्षा अभेदप्रधानः अथवा अध्यवसायमूलकः अलङ्कारः अस्ति ।
Ø उपमालङ्कारे उपमानोपमेययोः तुलना क्रियते ।
Ø किन्तु उत्प्रेक्षालङ्कारे उपमेये उपमानस्य सम्भावना क्रियते ।
Ø उपमालङ्कारे यथा, इव, वत् इत्यादिभिः शब्दैः तुलना क्रियते ।
Øकिन्तु उत्प्रेक्षालङ्कारे मन्ये, शङ्के, स्यात् इत्यादिभिः उपमेये उपमानस्य सम्भावना क्रियते ।
Ø इव शब्दस्य प्रयोगः उभयत्र भवति ।
Ø किन्तु उत्प्रेक्षालङ्कारे इव इत्यस्य प्रयोगः प्रायः क्रियापदेन सह भवति । यथा – लिम्पतीव, वर्षतीव इत्यादयः ।
Ø उपमालङ्कारे इव इत्यस्य प्रयोगः संज्ञाशब्दैः सह क्रियते । यथा – कमलम् इव, मुखम् इव
Øउपमालङ्कारे उपमानस्य वास्तविकी सत्ता भवति, किन्तु उत्प्रेक्षालङ्कारे काल्पनिकी सत्ता भवति ।

                          ***************************************************




Comments

Popular posts from this blog