(समाजे प्रसिद्धानां शब्दानां व्युत्पत्तिपुरस्सरं व्याकरणदिशा विश्लेषणम्)
विष्णुः - विश्वं वेवेष्टि व्याप्नोति यः सः विष्णु, विश्वं वेषति, सिञ्चति आप्यायते वा, विष्णाति वियुनक्ति भक्तान् मायापसारेण संसारादिति, विशति सर्वभूतानि, विशन्ति, अत्रेति वा, यस्माद्विश्वमिदं सर्वं तस्य शक्त्या महात्मनः । तस्मादेवोच्यते विष्णुर्विशधातोः प्रवेशनात् ।।
प्रसादः -
प्रसीदन्ति
जनाः यत्र, प्र + सद् + घञ्
उपाध्यायः
-
उपेत्याधियतेऽस्मात्
इति उप + अधि + इङ् + घञ्
आचार्यः - आङ्
+ चर्
+ ण्यत्
माता - मान्यते
पूज्यते इति, मान् + तन् + टाप् निपातनात् साधुः
पिता - पाति
रक्षत्यपत्यं यः सः पिता पा + तृच्
भ्राता -
भ्राजते
यः सः भ्राज् + तृन्
भगिनी - भगं
योनिरस्याः अस्ति इति, भग + इनि
पाणिनी -
पणिनो
मुनेर्युवापत्यम्, पणिन् + इञ्
कात्यायनी - कतस्यापत्यं
स्त्री
कात्यायनः -
कतस्य
गोत्रापत्यम्, कत + यञ्
महाभारतम् - महत्
भारम्, महान्तं भारं तनोति इति,
महाभारत + तन – ड
शास्त्री - शास्त्रं
वेत्ति इति शास् + णिनि
शास्त्रम् -
शिष्यते
अनेन इति शास् + ष्ट्रन्
वेदान्तः -
वेदानाम्
अन्तः
गीता -
गीयते
आत्मविद्योपदेशात्मिकाब्रह्मतत्त्वोपदेशमयी
कथा
यत्र सा, गै + क्त
काव्यम् -
कवेः
भाव कर्म वा, कवि + ष्यञ्
रामायणम् -
रामस्य
चरितान्वयं शास्त्रम् ।
रावणः - रावयति
भीषयति सर्वान् इति
सीता - सिनोतीति
सीता बाहुलकात् क्तप्रत्ययः ।
लक्ष्मणः -
लक्ष्मणम्
अस्य अस्ति इति, अर्शादित्वात् अच्
ज्योतिषम्
-
ज्योतिः
सूर्यादीनां ग्रहाणां गत्यादिकं प्रतिपाद्यतया
अस्य
अस्ति इति अच्प्रत्ययः
भागवतम् -
भगवतो
इदम्
हिन्दुः - हीनं
दूषयति इति दुष् + डु (पृषोदरादित्वात् साधुः)
विदेशः - विप्रकृष्टः
देशः इति, देशान्तरम्
आयुर्वेदः -
आयुरनेन
वेत्ति विन्दति वा इति,
मन्त्रः -
मन्त्र्यते
गुप्तं परिभाष्यते इति,
श्लोकः -
श्लोक्यते
इति,
मनः -
मन्यते
बुद्ध्यते अनेन इति मनः मन् + असुन्प्रत्ययः
मनुष्यः -
मनोरपत्यम्
इति मनु – षुक् + यत्
सरस्वती -
सरो
नीरं तद्वत् रसो वास्ति यस्याः सा सरस् + मतुप्
गङ्गा
-
गमयति,
प्रापयति, ज्ञापयति वा भगवतपदं या
शक्तिः
यद्वा गम्यते प्राप्यते ज्ञाप्यते मोक्षार्थिभिः या
गोदावरी -
गां
जलं स्वर्गं वा ददातीति गोदा तासु वरी श्रेष्ठा इति
गो
+ दा + वर + ङीप्
नर्मदा - नर्म
ददाति इति,
एकादशी -
एकादशानां
पूरणी इति
चाणक्यः -
चणकस्य
गोत्रापत्यम् इति
चन्द्रगुप्तः -
चन्द्रेण
गुप्तः (रक्षितः) इति
हस्तः - हसति
विकशतीति
पादः -
पद्यते
गम्यते अनेन इति
शिवः -
शेरते
अवतिष्ठन्ते अणिमादयः अष्टौ गुणाः यत्र सः
पार्वती -
पर्वतस्य
अपत्यं स्त्री इति
गणेशः -
गणानां
प्रमथसमूहानाम् ईशः
यद्वा
गणानां जीवजातानाम् ईशः इति
कुमारः -
कुत्सितो
मारः कन्दर्पः यस्मात् इति
मन्दिरम् - मन्द्यते
सुप्यते वा, मन्द्यते स्तूयते वा ।
मन्दाक्रान्ता -
मन्दं
यथा तथा आक्रान्ता इति
शरीरम् - शीर्यते
रोगादिना यत् यत्
दशरथः -
दशसु
दिक्षु गतो रथो यस्य सः
कौशल्या -
कोशलस्य
अपत्यं स्त्री
परीक्षा - परितः
ईक्ष्यते अनया इति
आश्रमः -
आश्राम्यन्ति
स्वं स्वं तपश्चरन्ति यत्र सः
आसनम् -
आस्यते
उपविश्यते अस्मिन् इति
आस्तिकः -
अस्ति
ईश्वरेति मतिः यस्यः सः
नास्तिकः - नास्ति
परलोकः ईश्वरः वा इति मतिर्यस्य सः यद्वा नास्ति परलोको यज्ञादिफलम् ईश्वरो वा
इत्यादिवाक्येन कायति शब्दायते वा इति ।
नासिका -
नासते
शब्दायते इति
मुखम्
- खनति
विदारयति अन्नादिकम् अनेन,
खन्यते
विधात्रा सुखमनेन इति
देव - दीव्यति
आनन्देन क्रीडति इति
असुरः -
अस्यति
देवान् क्षिपति इति
अर्थशास्त्रम् -
अर्थस्य
भूमिधनादेः प्रापकं शास्त्रम् इति
इतिहासः -
इतिह
आस्ति अस्मिन् इति
भूगोलः -
भूर्गोलो
मण्डलम् इव यस्य सः
सामाजिकः -
समाजं
रक्षति इति
मूर्खः -
मुह्यति
यः सः (मुह् + ख )
विद्वान् -
वेत्तीति
संसारः -
संसरति
अस्मात् इति
विश्वम् -
विशति
स्वकारणम् इति
ब्रह्म -
बृहति
बर्ध्यते निरतिशयमहत्त्व-लक्षणबुद्धिमान् भवति ।
स्वर्गः -
स्वरिति
गीयते इति
नरकः -
नृणाति
क्लेशं प्रापयतीति
लक्ष्मीः - लक्षयति
पश्यति उद्योगिनम् इति
तुलसी -
तुलां
सादृश्यं स्यति नाशयतीति
गृहम् -
गृह्णाति
धान्यादिकं जीवनार्थम् यत् तत्
देशः -
दिश्यते
निर्दिश्यते इति
राष्ट्रम् -
राजते
इति
समाजः -
संवीयते
यत्र इति
नगरम् -
नगाः
इव प्रासादादयः सन्ति यत्र इति
आकाशः -
आसमन्तात्
काशन्ते दीप्यन्ते सूर्यादयो यत्र
प्राथमिकः -
प्रथमे
भव इति
कक्ष्या - कक्षे
भव इति
छात्रः -
छत्रं
गुरोर्दोषाणावरणं तच्छीलमस्येति
बालकः -
बालः
एव
बालिका -
बाला
एव
तिथिः -
तनोति विस्तारयति चन्द्रकलाम् इति, तन्यते चन्द्रकलया इति
परीक्षा - परितः ईक्ष्यते अनया इति
आशीर्वादः -
आशिषो वारः
षष्ठीतत् इति
ब्रह्मचारी -
ब्रह्म
वेद तपो वा आचरति इति
ब्रह्मज्ञानी -
ब्रह्मज्ञानं
विद्यते अस्य इति
चिकित्सकः -
चिकित्सति
रोगम् अपनयति इति
औषधम् -
ओषधेः
इदम्
रोगः -
रुज्यते
अनेन इति
रोगी -
रोगः
अस्य अस्ति इति
शय्या -
शीयते
यत्र सा
प्रश्नः -
प्रच्छनम्
इति
शाकम् -
शक्यते
भोक्तुम् इति
लवणम् -
लुनाति
जाड्यम् इति
चषकः -
चषति
भक्षयति पिबति इति अनेन
स्थाली -
तिष्ठन्ति
अत्र अन्नादीनि इति
कंसः
- कामयति
पित्रादिबन्धुवर्गान् अभिभूय
पापात्मकं
राज्यविषयादिकं भोगम् इति ।
महिषासुरः -
महिषः
इव महिषाख्यो असुरः इति
ग्रन्थः -
ग्रथ्यते
विरच्यते इति
उद्यानम् -
उद्याति
क्रीडार्थम् अस्मिन् इति
कुटुम्बम्
-
कुटुम्बयते पालयति
इति, यद्वा कुटुम्ब्यते
पाल्यते
सम्बध्यते वा इति
परिवारः -
परिव्रियते अनेन इति
वासरः - वासयति
इति
दिनम् -
द्यति
खण्डयति महाकालम् इति
मासः -
मस्यते
परिमीयते असावनेन वेति
वर्षम् -
वृष्यते
इति
निर्धनः -
निर्गतं
धनं यस्मात् सः
दीपावली -
दीपानाम्
आवली इति
दशहरा -
(दश
अदत्तोपादानहिंसादिदशविधानि दशजन्मकृतानि वा
पापानि हरतीति ।
नागपञ्चमी -
नागप्रिया
पञ्चमी इति
नवरात्रम् - नवानां
रात्रीणां समाहारः इति
वैशाखः - विशाखा
प्रयोजनम् अस्य
आषाढः -
आषाढया
नक्षेत्रेण युक्ता पूर्णिमा यस्मिन् इति
श्रावणः - श्रवणेनाचरति
न तु कार्येण इति
भाद्रः -
भाद्री
पौर्णमासी अस्मिन् इति
आश्विनः -
अश्विनीनक्षत्रयुक्ता पौर्णमासी यस्मिन् मासे सः
कार्त्तिकः -
कृतिकानक्षत्रयुक्ता
पौर्णमासी यस्मिन् मासे सः
मार्गशीर्षः -
मृगशीर्षेण
युक्ता पौर्णमासी यस्मिन् मासे सः
पौषः - पौषी
पौर्णमासी यस्मिन् मासे सः
माघः - मघायुक्ता
पौर्णमासी यस्मिन् मासे सः
फाल्गुनः - फल्गुनीनक्षत्रयुक्ता
पौर्णमासी यस्मिन् मासे सः
चैत्रः - चित्रानक्षत्रयुक्ता
पौर्णमासी यस्मिन् मासे सः
यजुर्वेदः - यजुरेव
वेदः यद्वा यजुषां वेदः
दुर्गा -
दुर्दुःखेन
गम्यते प्राप्यते इति
लक्ष्मीः -
लक्षयति
पश्यति उद्योगिनम् इति
कार्तिकेयः -
कृत्तिकानाम्
अपत्यम् इति
कालिदासः -
काल्याः
दासः इति
हनुमान् -
हनुः
अस्य अस्ति इति
विभीषणः -
विशेषेण
भीषयति इति
मन्दोदरी -
मन्दम्
उदरं यस्याः सा
अङ्गदः -
अङ्गं
द्यति युद्धकाले अवखण्डयति इति
सुग्रीवः - शोभना
ग्रीवा यस्य सः
इन्द्रः -
इन्दतोति
इति
गौतमः - गोतमस्य
ऋषेः गोत्रापत्यम् इति
कणादः -
कणम्
अत्ति भक्षयति इति
वादरायणः -
वदरायणे
वदरिकाश्रमे निवसति इति
भिष्मः -
बिभेति
अस्मात् सः
युधिष्ठिरः -
युधि
संग्रामे स्थिरः इति
याता -
यतते
अन्योन्यभेदाय इति
ननान्दा -
न
नन्दति सवयापि इति
जामाता - जायां
माति मिनोति, मिमीते इति
पुत्रः - पुंनाम
नरकात् त्रायते इति
स्वामी -
स्वम्
अस्य अस्ति इति
भृत्यः -
भ्रियते
इति
विधवा -
विगतो
धवो भर्ता यस्याः सा
सौभाग्यम् -
सुभगायै
हितम् इति
वेश्या -
(वेशमर्हति
वेशेन दीव्यत्याचरति वेशेन पण्ययोगेन
जीवति
वा ।
आदिकविः -
आदिः
प्रथमः कविः यः सः
आद्योपान्तम् -
आद्यं
च उपातञ्च इति
आधुनिकः -
अधुना
जातः इति
आन्वीक्षिकी - श्रवणादनु
ईक्षा पर्य्यालोचना प्रयोजनमस्याः इति
आमात्य -
अमात्यः
एव इति
राजा -
राजते
शोभते इति
मन्त्री -
मन्त्रो
गुप्तभाषणम् अस्य अस्ति इति
यमराजः -
प्राणिसंयमनात्
यमप्रभृतयः किङ्करास्तेषु राजते
यमेन
संयमेन राजते इति वा ।
पशुः -
अविशेषेण
सर्वं पश्यति इति
रथः -
रम्यते
अनेन वा इति
नेत्रम् - नीयते नयति वा अनेन इति
नेत्रम् - नीयते नयति वा अनेन इति
अश्रु -
अश्नुते
नेत्रम् इति
अपाङ्गः -
अपाञ्चति
वक्रं गच्छति चक्षुर्यत्र इति
अङ्गुष्ठः -
अङ्गौ
हस्ते मुख्यत्वे तिष्ठति इति
ओष्ठः - उष्यते
दह्यते उष्णाहारेण इति
स्कन्धः -
स्कन्द्यते
असौ इति
मणिबन्धः -
मणिर्बध्यते
यत्र
कर्णः - कीर्यते क्षिप्यते शब्दः वायुना यत्र
त्वच् -
त्वचति
संवृणोति सर्वशरीरं यत्
रुधिरः - रुध्यते
रुणद्धि इति वा
बुद्धिः -
बुध्यते
अनया इति
ग्रीवा -
गीर्यते
अनया इति
कपोलः -
कम्पते
सुखं पोलतीति
नासिका -
नासते
शब्दायते इति
उदरम् -
उत्
ऋणाति इति
शरीरम् -
शीर्यते
रोगादिना यत्
उपनयनम् -
अध्ययनार्थम्
आचार्य्यस्य उप समीपं नीयते येन
कर्मणा
इति
नामकरणम् -
नाम्नः
करणं यत्र
अतिथिः -
अतति
सातत्येन गच्छति न तिष्ठति इति
पाठशाला -
पाठस्य
अध्ययनस्य शाला गृहम् इति
कमलम् -
कं
जलम्
अलति अलंकरोति वा
पर्वतः -
पर्वति
पूरयतीति यद्वा पर्वणि भागाः यत्र इति
अग्निः -
अङ्गति
ऊर्ध्वं गच्छति इति
धूमः -
धूनोति
धूयते वा
पलाण्डुः -
पलस्य मांसम् इव आचरति इति
लशुनम् -
अश्यते
भुज्यते इति
शाकम् -
शक्यते
भोक्तुम् इति
सूपः -
सौति
रसान् इति
मरिचम् - म्रियते
नश्यति श्लेष्मादिकमनेनेति
चन्द्रमाः -
चन्द्रमानन्दं
मिमीते यद्वा चन्द्रं कर्पूरं सादृश्येन
माति
परिमातीति
निम्बः -
निम्बति
स्थास्थ्यं ददाति इति
धान्यकम् -
धान्यम्
इव प्रतिकृतिः इति
हरिद्रा - हरितं
पीतवर्णं लाति इति
वंशः - वमति
उद्गिरति पुरुषान् वन्यते इति वा । टु वम
उद्गिरणे इति धातोर्यद्वा वन शब्दे इति धातोर्बाहुलकात् शः । यद्बा
वष्टि उश्यते इति वा ।
गर्दभः - गर्द्दतिगर्द्दयतिवाकर्कशशब्दंकरोतीत्यर्थः
गजः -
गजति
मदेन मत्तो भवतीति
सिंहः -
सिञ्चति
तेजः पशुषु इति
अश्वः - अश्नुते
मार्गं व्याप्नोति इति
धेनुः -
धयति
लेढि सुतान् धीयते वत्सैरिति वा
वानरः -
वानं
वने भवं फलादिकं रातीति
तण्डुलः -
तड्यते
आहन्यते इति
सम्यक अस्ति
ReplyDelete